श्रीमद्वाल्मीकि रामायण माहात्म्यम्
। चतुर्थोऽध्यायः ।
नारद उवाच –
अन्यमासं प्रवक्ष्यामि श्रृणुध्वं सुसमाहिताः ।
सर्वपापहरं पुण्यं सर्वदुःख निबर्हणम् ॥ १
ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषिताम् ।
समस्तकामफलदं सर्वव्रत फलप्रदम् ॥ २
दुःस्वप्ननाशनं धन्यं भुक्तिमुक्ति फलप्रदम् ।
रामायणस्य माहात्म्यं श्रोतव्यं च प्रयत्नतः ॥ ३
अत्रैवोदाहरन्ति इमं इतिहासं पुरातनम् ।
पठतां श्रृण्वतां चैव सर्वपाप प्रणाशनम् ॥ ४
आसीत् पुता कलियुगे कलिको नाम लुब्धकः ।
परदार परद्रव्य हरणे सततं रतः ॥ ५
परनिन्दापरो नित्यं जन्तुपीडाकरस्तथा ।
हतवान् ब्राह्मणान् गावः शतशोऽथ सहस्रशः ॥ ६
देवस्वहरणे नित्यं परस्वहरणे तथा ।
तेन पापान्यनेकानि कृतानि सुमहान्ति च ॥ ७
न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः ।
स कदाचिन्महापापो जन्तूनामन्तकोपमः ॥ ८
सौवीरनगरं प्राप्तः सर्वैश्वर्यसमन्वितम् ।
योषिद्भिर्भूषिताभिश्च सरोभिर्विमलोदकैः ॥ ९
अलंकृतं विपणिभिः ययौ देवपुरोपमम् ।
तस्योपवनमध्यस्थं रम्यं केशवमन्दिरम् ॥ १०
छादितं हेमकलशैः दृष्ट्वा व्याधो मुदं ययौ ।
हराम्यत्र सुवर्णानि बहूनीति विनिश्चितः ॥ ११
जगाम रामभवनं कीनाशश्चौर्यलोलुपः ।
तत्रापश्यद् द्विजवरं शान्तं तत्त्वार्थकोविदम् ॥ १२
परिचर्यापरं विष्णोः उत्तङ्कं तपसां निधिम् ।
एकाकिनं दयालुं च निःस्पृहं ध्यानलोलुपम् ॥ १३
दृष्ट्वासौ लुब्धको मेने तं चौर्यस्यान्तरायिणम् ।
देवस्य द्रव्यजातं तु समादाय महानिशि ॥ १४
उत्तङ्कं हन्तुमारेभे उद्यतासिर्मदोद्धतः ।
पादेनाक्रम्य तद्वक्षो गलं संगृह्य पाणिना ॥ १५
हन्तुं कृतमतिं व्याधं उत्तङ्कं प्रेक्ष्य चाब्रवीत् ।
उत्तङ्क उवाच
भो भोः साधो वृथा मां त्वं हनिष्यसि निरागसम् ॥ १६
मया किमपराधं ते तद् वद त्वं च लुब्धक ।
कृतापराधिनो लोके हिंसां कुर्वन्ति यत्नतः ॥ १७
ह हिंसन्ति वृथा सौम्य सज्जना अप्यपापिनम् ।
विरोधिष्वपि मूर्खेषु निरीक्ष्यावस्थितान् गुणान् ॥ १८
विरोधं नाधिगच्छन्ति सज्जनाः शान्तचेतसः ।
बहुधा वाच्यमानोपि यो नरः क्षमयान्वितः ॥ १९
तमुत्तमं नरं प्राहुः विष्णोः प्रियतरं तथा ॥ २०
सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चंदनतरु सुरभीकरोति मुखं कुठारस्य ॥ २१
अहो विधिर्वै बलवान् बाधते बहुधा जनान् ।
सर्वसङ्गविहीनोऽपि बाध्यते तु दुरात्मना ॥ २२
अहो निष्कारणं लोके बाधन्ते दुर्जना जनान् ।
धीवराः पिशुना व्याधा लोकेऽकारणवैरिणः ॥ २३
अहो बलवती माया मोहत्यखिलं जगत् ।
पुत्रमित्रकलत्राद्यैः सर्वदुःखेन योज्यते ॥ २४
परद्रव्यापहारेण कलत्रं पोषितं च यत् ।
अन्ते तत् सर्वमुत्सृज्य एक एव प्रयाति वै ॥ २५
मम माता मम पिता मम भार्या ममात्मजाः ।
ममेदं इति जन्तूनां ममता बाधते वृथा ॥ २६
यावद् अर्पयति द्रव्यं तावद् भवति बान्धवः ।
अर्जितं तु धनं सर्वे भुञ्जन्ते बान्धवाः सदा ॥ २७
दुःखमेकतमो मूढः तत्पाप फलमश्नुते ।
इति ब्रुवाणं तं ऋषिं विमृश्य भयविह्वलः ॥ २८
कलिकः प्राञ्जलिः प्राह क्षमस्वेति पुनः पुनः ।
तत्सङ्गस्य प्रभावेण हरिसंनिधिमात्रतः ॥ २९
गतपापो लुब्धकश्च सानुतापोऽभवद् ध्रुवम् ।
मया कृतानि पापानि महान्ति सुबहूनि च ॥ ३०
तानि सर्वाणि नष्टानि विप्रेन्द्र तव दर्शनात् ।
अहं वै पापधीर्नित्यं पहापापं समाचरम् ॥ ३१
कथं मे निष्कृतिभूयात् कं यामि शरणं विभो ।
पूर्वजन्मार्जितैः पापैः लुब्धकत्वं अवाप्तवान् ॥ ३२
अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयाम् ।
इति वाक्यं समाकर्ण्य कलिकस्य महात्मनः ॥ ३३
उत्तङ्को नाम विप्रर्षिः इदं वाक्यं अथाब्रवीत् ।
उत्तङ्क उवाच
साधु साधु महाप्राज्ञ मतिस्ते विमलोज्ज्वला ॥ ३४
यस्मात् संसारदुःखानां नाशोपायं अभीप्ससि ।
चैत्रे मासि सिते पक्षे कथा रामायणस्य च ॥ ३५
नवाह्ना किल श्रोतव्या भक्तिभावेन सादरम् ।
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ३६
तस्मिन् क्षणेऽसौ कलिको लुब्धको वीतकल्मषः ।
रामायणकथां श्रुत्वा सद्यः पञ्चत्वमागतः ॥ ३७
उत्तङ्कः पतितः वीक्ष्य लुब्धकं तं दयापरः ।
एतद् दृष्ट्वा विस्मितश्च अस्तौषीत् कमलापतिम् ॥ ३८
कथां रामायणस्यापि श्रुत्वा च वीतकल्मषः ।
दिव्यं विमानमारुह्य मुनिमेतदथाब्रवीत् ॥ ३९
विमुक्तस्त्वत् प्रसादेन महापातक संकटात् ।
तस्मान्नतोऽस्मि ते विद्वन् यत् कृतं तत् क्षमस्व मे ॥ ४०
सूत उवाच
इत्युक्त्वा देवकुसुमैः मुनिश्रेष्ठमवाकिरत् ।
प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार ह ॥ ४१
ततो विमानमारुह्य सर्वकामसमन्वितम् ।
अप्सरोगणसंकीर्णं प्रपेदे हरिमन्दिरम् ॥ ४२
तस्मात् श्रृणुध्वं विप्रेन्द्राः कथां रामायणस्य च ।
चैत्रे मासि सिते पक्षे श्रोतव्यं च प्रयत्नतः ॥ ४३
नवाह्ना किल रामस्य रामायण कथामृताम् ।
तस्माद् ऋतुषु सर्वेषु हितकृत् हरिपूजकः ॥ ४४
ईप्सितं मनसा यद्यत् तदाप्नोति न संशयः ।
सनत्कुमार यत् पृष्टं तत् सर्वं गदितं मया ॥ ४५
रामायणस्य माहात्म्यं किमन्यत् श्रोतुमिच्छसि ॥ ४६
इति श्रीस्कंदपुराणे उत्तरखण्डे नारद-सनत्कुमार संवादे रामायणमाहात्म्ये चैत्रमसफलानुकीर्तनं नाम चतुर्थोऽध्यायः ॥ ४ ॥