श्रीमन्नारायणीयम् – 17 ( सप्तदशम् दशकम् )
उत्तानपादनृपतेर्मनुनन्दनस्य
जाया बभूव सुरुचिर्नितरामभीष्टा
अन्या सुनीतिरिति भर्तुरनादृता सा
त्वामेव नित्यमगति: शरणं गताऽभूत्
अङ्के पितु: सुरुचिपुत्रकमुत्तमं तं
दृष्ट्वा ध्रुव: किल सुनीतिसुतोऽधिरोक्ष्यन्
आचिक्षिपे किल शिशु: सुतरां सुरुच्या
दुस्सन्त्यजा खलु भवद्विमुखैरसूया
त्वन्मोहिते पितरि पश्यति दारवश्ये
दूरं दुरुक्तिनिहत: स गतो निजाम्बाम्
साऽपि स्वकर्मगतिसन्तरणाय पुंसां
त्वत्पादमेव शरणं शिशवे शशंस
आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा
मानी निरेत्य नगरात् किल पञ्चवर्ष:
सन्दृष्टनारदनिवेदितमन्त्रमार्ग-
स्त्वामारराध तपसा मधुकाननान्ते
ताते विषण्णहृदये नगरीं गतेन
श्रीनारदेन परिसान्त्वितचित्तवृत्तौ
बालस्त्वदर्पितमना: क्रमवर्धितेन
निन्ये कठोरतपसा किल पञ्चमासान्
तावत्तपोबलनिरुच्छ्-वसिते दिगन्ते
देवार्थितस्त्वमुदयत्करुणार्द्रचेता:
त्वद्रूपचिद्रसनिलीनमते: पुरस्ता-
दाविर्बभूविथ विभो गरुडाधिरूढ:
त्वद्दर्शनप्रमदभारतरङ्गितं तं
दृग्भ्यां निमग्नमिव रूपरसायने ते
तुष्टूषमाणमवगम्य कपोलदेशे
संस्पृष्टवानसि दरेण तथाऽऽदरेण
#REF!
तावद्विबोधविमलं प्रणुवन्तमेन-
माभाषथास्त्वमवगम्य तदीयभावम्
राज्यं चिरं समनुभूय भजस्व भूय:
सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम्
यक्षेण देव निहते पुनरुत्तमेऽस्मिन्
यक्षै: स युद्धनिरतो विरतो मनूक्त्या
शान्त्या प्रसन्नहृदयाद्धनदादुपेता-
त्त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा
अन्ते भवत्पुरुषनीतविमानयातो
मात्रा समं ध्रुवपदे मुदितोऽयमास्ते
एवं स्वभृत्यजनपालनलोलधीस्त्वं
वातालयाधिप निरुन्धि ममामयौघान्
अथ श्रीमन्नारायणीये सप्तदशम् दशकम् समाप्तम्
श्री हरये नमः रमा रमण गोविन्द गोविन्दा
श्री कृष्णार्पणमस्तु
Please leave your valuable suggestions and feedback here
