श्रीमन्नारायणीयम् – 28 ( अष्टाविंशम् दशकम् )
अथ श्रीमन्नारायणीयम् अष्टाविंशम् दशकम्
अमृतमथने कालकूटाधुत्पत्ति वणर्नं
लक्ष्मीस्वयंवर वणर्नं
अमृतोत्पत्ति वर्णनं च
गरलं तरलानलं पुरस्ता-
ज्जलधेरुद्विजगाल कालकूटम्
अमरस्तुतिवादमोदनिघ्नो
गिरिशस्तन्निपपौ भवत्प्रियार्थम्
विमथत्सु सुरासुरेषु जाता
सुरभिस्तामृषिषु न्यधास्त्रिधामन्
हयरत्नमभूदथेभरत्नं
द्युतरुश्चाप्सरस: सुरेषु तानि
जगदीश भवत्परा तदानीं
कमनीया कमला बभूव देवी
अमलामवलोक्य यां विलोल:
सकलोऽपि स्पृहयाम्बभूव लोक:
त्वयि दत्तहृदे तदैव देव्यै
त्रिदशेन्द्रो मणिपीठिकां व्यतारीत्
सकलोपहृताभिषेचनीयै:
ऋषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन्
अभिषेकजलानुपातिमुग्ध-
त्वदपाङ्गैरवभूषिताङ्गवल्लीम्
मणिकुण्डलपीतचेलहार-
प्रमुखैस्ताममरादयोऽन्वभूषन्
वरणस्रजमात्तभृङ्गनादां
दधती सा कुचकुम्भमन्दयाना
पदशिञ्जितमञ्जुनूपुरा त्वां
कलितव्रीलविलासमाससाद
गिरिशद्रुहिणादिसर्वदेवान्
गुणभाजोऽप्यविमुक्तदोषलेशान्
अवमृश्य सदैव सर्वरम्ये
निहिता त्वय्यनयाऽपि दिव्यमाला
उरसा तरसा ममानिथैनां
भुवनानां जननीमनन्यभावाम्
त्वदुरोविलसत्तदीक्षणश्री-
परिवृष्ट्या परिपुष्टमास विश्वम्
अतिमोहनविभ्रमा तदानीं
मदयन्ती खलु वारुणी निरागात्
तमस: पदवीमदास्त्वमेना-
मतिसम्माननया महासुरेभ्य:
तरुणाम्बुदसुन्दरस्तदा त्वं
ननु धन्वन्तरिरुत्थितोऽम्बुराशे:
अमृतं कलशे वहन् कराभ्या-
मखिलार्तिं हर मारुतालयेश
ॐ तत्सत् इति श्रीमन्नारायणीये अष्टाविंशम् दशकम् समाप्तम्
श्री हरये नमः रमा रमण गोविन्द गोविन्दा
श्री कृष्णार्पणमस्तु
Please leave your valuable suggestions and feedback here
