श्रीमन्नारायणीयम् – 20 ( विंशम् दशकम् )
ॐ श्रीकृष्णाय परब्रह्मणे नम:
अथ श्रीमन्नारायणीयम् विंशम् दशकम्
ऋषभयोगीश्वरचरित वर्णनं
प्रियव्रतस्य प्रियपुत्रभूता-
दाग्नीध्रराजादुदितो हि नाभि:
त्वां दृष्टवानिष्टदमिष्टिमध्ये
तवैव तुष्ट्यै कृतयज्ञकर्मा
अभिष्टुतस्तत्र मुनीश्वरैस्त्वं
राज्ञ: स्वतुल्यं सुतमर्थ्यमान:
स्वयं जनिष्येऽहमिति ब्रुवाण-
स्तिरोदधा बर्हिषि विश्वमूर्ते
नाभिप्रियायामथ मेरुदेव्यां
त्वमंशतोऽभू: ॠषभाभिधान:
अलोकसामान्यगुणप्रभाव-
प्रभाविताशेषजनप्रमोद:
त्वयि त्रिलोकीभृति राज्यभारं
निधाय नाभि: सह मेरुदेव्या
तपोवनं प्राप्य भवन्निषेवी
गत: किलानन्दपदं पदं ते
इन्द्रस्त्वदुत्कर्षकृतादमर्षा-
द्ववर्ष नास्मिन्नजनाभवर्षे
यदा तदा त्वं निजयोगशक्त्या
स्ववर्षमेनद्व्यदधा: सुवर्षम्
जितेन्द्रदत्तां कमनीं जयन्ती-
मथोद्वहन्नात्मरताशयोऽपि
अजीजनस्तत्र शतं तनूजा-
नेषां क्षितीशो भरतोऽग्रजन्मा
नवाभवन् योगिवरा नवान्ये
त्वपालयन् भारतवर्षखण्डान्
सैका त्वशीतिस्तव शेषपुत्र-
स्तपोबलात् भूसुरभूयमीयु:
उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये
विरक्तिभक्त्यन्वितमुक्तिमार्गम्
स्वयं गत: पारमहंस्यवृत्ति-
मधा जडोन्मत्तपिशाचचर्याम्
परात्मभूतोऽपि परोपदेशं
कुर्वन् भवान् सर्वनिरस्यमान:
विकारहीनो विचचार कृत्स्नां
महीमहीनात्मरसाभिलीन:
शयुव्रतं गोमृगकाकचर्यां
चिरं चरन्नाप्य परं स्वरूपं
दवाहृताङ्ग: कुटकाचले त्वं
तापान् ममापाकुरु वातनाथ
अथ श्रीमन्नारायणीये विंशम् दशकम् समाप्तम्
श्री हरये नमः रमा रमण गोविन्द गोविन्दा
श्री कृष्णार्पणमस्तु
Please leave your valuable suggestions and feedback here
