श्रीमन्नारायणीयम् – 32 ( द्वात्रिंशम् दशकम् )
ॐ श्रीकृष्णाय परब्रह्मणे नम:
अथ श्रीमन्नारायणीयम् द्वात्रिंशम् दशकम्
मत्स्यावतार वर्णनं
पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे
निद्रोन्मुखब्रह्ममुखात् हृतेषु वेदेष्वधित्स: किल मत्स्यरूपम्
सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम्
कराञ्जलौ सञ्ज्वलिताकृतिस्त्वमदृश्यथा: कश्चन बालमीन:
क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽम्बुपात्रेण मुनि: स्वगेहम्
स्वल्पैरहोभि: कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम्
योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम्
पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासी:
प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्र:
सप्तर्षिभि: सार्धमपारवारिण्युद्घूर्णमान: शरणं ययौ त्वाम्
धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते
तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान्
झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम्
निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिं बबन्धु:
आकृष्टनौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान्
संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारी:
कल्पावधौ सप्तमुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिपं तम्
वैवस्वताख्यं मनुमादधान: क्रोधाद् हयग्रीवमभिद्रुतोऽभू:
स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान् गृहीत्वा
विरिञ्चये प्रीतहृदे ददान: प्रभञ्जनागारपते प्रपाया:
ॐ तत्सत् इति श्रीमन्नारायणीये द्वात्रिंशम् दशकम् समाप्तम्
श्री हरये नमः रमा रमण गोविन्द गोविन्दा
श्री कृष्णार्पणमस्तु
Please leave your valuable suggestions and feedback here
