श्रीमन्नारायणीयम् – 11 ( एकादशम् दशकम् )
ॐ श्रीकृष्णाय परब्रह्मणे नम:
अथ श्रीमन्नारायणीयम् एकादशम् दशकम्
सनकादीनां वैकुण्ठप्रवेश वर्णनम्
जयविजयशाप वर्णनम्
हिरण्यकशिपु हिरण्याक्षोत्पत्ति वर्णनम् च
क्रमेण सर्गे परिवर्धमाने
कदापि दिव्या: सनकादयस्ते
भवद्विलोकाय विकुण्ठलोकं
प्रपेदिरे मारुतमन्दिरेश
मनोज्ञनैश्रेयसकाननाद्यै-
रनेकवापीमणिमन्दिरैश्च
अनोपमं तं भवतो निकेतं
मुनीश्वरा: प्रापुरतीतकक्ष्या:
भवद्दिद्दृक्षून्भवनं विविक्षून्
द्वा:स्थौ जयस्तान् विजयोऽप्यरुन्धाम्
तेषां च चित्ते पदमाप कोप:
सर्वं भवत्प्रेरणयैव भूमन्
वैकुण्ठलोकानुचितप्रचेष्टौ
कष्टौ युवां दैत्यगतिं भजेतम्
इति प्रशप्तौ भवदाश्रयौ तौ
हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान्
तदेतदाज्ञाय भवानवाप्त:
सहैव लक्ष्म्या बहिरम्बुजाक्ष
खगेश्वरांसार्पितचारुबाहु-
रानन्दयंस्तानभिराममूर्त्या
प्रसाद्य गीर्भि: स्तुवतो मुनीन्द्रा-
ननन्यनाथावथ पार्षदौ तौ
संरम्भयोगेन भवैस्त्रिभिर्मा-
मुपेतमित्यात्तकृपं न्यगादी:
त्वदीयभृत्यावथ काश्यपात्तौ
सुरारिवीरावुदितौ दितौ द्वौ
सन्ध्यासमुत्पादनकष्टचेष्टौ
यमौ च लोकस्य यमाविवान्यौ
हिरण्यपूर्व: कशिपु: किलैक:
परो हिरण्याक्ष इति प्रतीत:
उभौ भवन्नाथमशेषलोकं
रुषा न्यरुन्धां निजवासनान्धौ
तयोर्हिरण्याक्षमहासुरेन्द्रो
रणाय धावन्ननवाप्तवैरी
भवत्प्रियां क्ष्मां सलिले निमज्य
चचार गर्वाद्विनदन् गदावान्
ततो जलेशात् सदृशं भवन्तं
निशम्य बभ्राम गवेषयंस्त्वाम्
भक्तैकदृश्य: स कृपानिधे त्वं
निरुन्धि रोगान् मरुदालयेश
ॐ तत्सत् इति श्रीमन्नारायणीये एकादशम् दशकम् समाप्तम्
श्री हरये नमः रमा रमण गोविन्द गोविन्दा
श्री कृष्णार्पणमस्तु
Please leave your valuable suggestions and feedback here
