श्रीमन्नारायणीयम् – 14 ( चतुर्दशम् दशकम् )
समनुस्मृततावकाङ्घ्रियुग्म:
स मनु: पङ्कजसम्भवाङ्गजन्मा
निजमन्तरमन्तरायहीनं
चरितं ते कथयन् सुखं निनाय
समये खलु तत्र कर्दमाख्यो
द्रुहिणच्छायभवस्तदीयवाचा
धृतसर्गरसो निसर्गरम्यं
भगवंस्त्वामयुतं समा: सिषेवे
गरुडोपरि कालमेघक्रमं
विलसत्केलिसरोजपाणिपद्मम्
हसितोल्लसिताननं विभो त्वं
वपुराविष्कुरुषे स्म कर्दमाय
स्तुवते पुलकावृताय तस्मै
मनुपुत्रीं दयितां नवापि पुत्री:
कपिलं च सुतं स्वमेव पश्चात्
स्वगतिं चाप्यनुगृह्य निर्गतोऽभू:
स मनु: शतरूपया महिष्या
गुणवत्या सुतया च देवहूत्या
भवदीरितनारदोपदिष्ट:
समगात् कर्दममागतिप्रतीक्षम्
मनुनोपहृतां च देवहूतिं
तरुणीरत्नमवाप्य कर्दमोऽसौ
भवदर्चननिवृतोऽपि तस्यां
दृढशुश्रूषणया दधौ प्रसादम्
स पुनस्त्वदुपासनप्रभावा-
द्दयिताकामकृते कृते विमाने
वनिताकुलसङ्कुलो नवात्मा
व्यहरद्देवपथेषु देवहूत्या
शतवर्षमथ व्यतीत्य सोऽयं
नव कन्या: समवाप्य धन्यरूपा:
वनयानसमुद्यतोऽपि कान्ता-
हितकृत्त्वज्जननोत्सुको न्यवात्सीत्
निजभर्तृगिरा भवन्निषेवा-
निरतायामथ देव देवहूत्याम्
कपिलस्त्वमजायथा जनानां
प्रथयिष्यन् परमात्मतत्त्वविद्याम्
वनमेयुषि कर्दमे प्रसन्ने
मतसर्वस्वमुपादिशन् जनन्यै
कपिलात्मक वायुमन्दिरेश
त्वरितं त्वं परिपाहि मां गदौघात्
अथ श्रीमन्नारायणीये चतुर्दशम् दशकम् समाप्तम्
श्री हरये नमः रमा रमण गोविन्द गोविन्दा
श्री कृष्णार्पणमस्तु
Please leave your valuable suggestions and feedback here
