श्रीमन्नारायणीयम् – 15 ( पञ्चदशम् दशकम् )
मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता
त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम्
महदनुगमलभ्या भक्तिरेवात्र साध्या
कपिलतनुरिति त्वं देवहूत्यै न्यगादी:
प्रकृतिमहदहङ्काराश्च मात्राश्च भूता-
न्यपि हृदपि दशाक्षी पूरुष: पञ्चविंश:
इति विदितविभागो मुच्यतेऽसौ प्रकृत्या
कपिलतनुरिति त्वं देवहूत्यै न्यगादी:
प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं
यदि तु सजति तस्यां तत् गुणास्तं भजेरन्
मदनुभजनतत्त्वालोचनै: साऽप्यपेयात्
कपिलतनुरिति त्वं देवहूत्यै न्यगादी:
विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं
गरुडसमधिरूढं दिव्यभूषायुधाङ्कम्
रुचितुलिततमालं शीलयेतानुवेलं
कपिलतनुरिति त्वं देवहूत्यै न्यगादी:
मम गुणगणलीलाकर्णनै: कीर्तनाद्यै-
र्मयि सुरसरिदोघप्रख्यचित्तानुवृत्ति:
भवति परमभक्ति: सा हि मृत्योर्विजेत्री
कपिलतनुरिति त्वं देवहूत्यै न्यगादी:
अहह बहुलहिंसासञ्चितार्थै: कुटुम्बं
प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली
विशति हि गृहसक्तो यातनां मय्यभक्त:
कपिलतनुरितित्वं देवहूत्यै न्यगादी:
युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे
प्रसवगलितबोध: पीडयोल्लङ्घ्य बाल्यम्
पुनरपि बत मुह्यत्येव तारुण्यकाले
कपिलतनुरिति त्वं देवहूत्यै न्यगादी:
#REF!
पितृसुरगणयाजी धार्मिको यो गृहस्थ:
स च निपतति काले दक्षिणाध्वोपगामी
मयि निहितमकामं कर्म तूदक्पथार्थं
कपिल्तनुरिति त्वं देवहूत्यै न्यगादी:
परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं
सकलभयविनेत्रीं सर्वकामोपनेत्रीम्
वदसि खलु दृढं त्वं तद्विधूयामयान् मे
गुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम्
अथ श्रीमन्नारायणीये पञ्चदशम् दशकम् समाप्तम्
श्री हरये नमः रमा रमण गोविन्द गोविन्दा
श्री कृष्णार्पणमस्तु
Please leave your valuable suggestions and feedback here
