श्रीमन्नारायणीयम् – 16 ( षोडशम् दशकम् )
ॐ श्रीकृष्णाय परब्रह्मणे नम:
अथ श्रीमन्नारायणीयम् षोडशम् दशकम्
नरनारायणावतारं वर्णनं
दक्षयाग वर्णनं च
दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां
लब्ध्वा प्रसूतिमिह षोडश चाप कन्या:
धर्मे त्रयोदश ददौ पितृषु स्वधां च
स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे
मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं
नारायणं नरसखं महितानुभावम्
यज्जन्मनि प्रमुदिता: कृततूर्यघोषा:
पुष्पोत्करान् प्रववृषुर्नुनुवु: सुरौघा:
दैत्यं सहस्रकवचं कवचै: परीतं
साहस्रवत्सरतपस्समराभिलव्यै:
पर्यायनिर्मिततपस्समरौ भवन्तौ
शिष्टैककङ्कटममुं न्यहतां सलीलम्
अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं
त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सी:
शक्रोऽथ ते शमतपोबलनिस्सहात्मा
दिव्याङ्गनापरिवृतं प्रजिघाय मारम्
कामो वसन्तमलयानिलबन्धुशाली
कान्ताकटाक्षविशिखैर्विकसद्विलासै:
विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां
भीरुस्त्वयाऽथ जगदे मृदुहासभाजा
भीत्याऽलमङ्गज वसन्त सुराङ्गना वो
मन्मानसं त्विह जुषध्वमिति ब्रुवाण:
त्वं विस्मयेन परित: स्तुवतामथैषां
प्रादर्शय: स्वपरिचारककातराक्षी:
सम्मोहनाय मिलिता मदनादयस्ते
त्वद्दासिकापरिमलै: किल मोहमापु:
दत्तां त्वया च जगृहुस्त्रपयैव सर्व-
स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम्
#REF!
दृष्ट्वोर्वशीं तव कथां च निशम्य शक्र:
पर्याकुलोऽजनि भवन्महिमावमर्शात्
एवं प्रशान्तरमणीयतरावतारा-
त्त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव
क्रुद्धेशमर्दितमख: स तु कृत्तशीर्षो
देवप्रसादितहरादथ लब्धजीव:
त्वत्पूरितक्रतुवर: पुनराप शान्तिं
स त्वं प्रशान्तिकर पाहि मरुत्पुरेश
अथ श्रीमन्नारायणीये षोडशम् दशकम् समाप्तम्
श्री हरये नमः रमा रमण गोविन्द गोविन्दा
श्री कृष्णार्पणमस्तु
Please leave your valuable suggestions and feedback here
