श्रीमन्नारायणीयम् – 18 ( अष्टादशम् दशकम् )
जातस्य ध्रुवकुल एव तुङ्गकीर्ते-
रङ्गस्य व्यजनि सुत: स वेननामा
यद्दोषव्यथितमति: स राजवर्य-
स्त्वत्पादे निहितमना वनं गतोऽभूत्
पापोऽपि क्षितितलपालनाय वेन:
पौराद्यैरुपनिहित: कठोरवीर्य:
सर्वेभ्यो निजबलमेव सम्प्रशंसन्
भूचक्रे तव यजनान्ययं न्यरौत्सीत्
सम्प्राप्ते हितकथनाय तापसौघे
मत्तोऽन्यो भुवनपतिर्न कश्चनेति
त्वन्निन्दावचनपरो मुनीश्वरैस्तै:
शापाग्नौ शलभदशामनायि वेन:
तन्नाशात् खलजनभीरुकैर्मुनीन्द्रै-
स्तन्मात्रा चिरपरिरक्षिते तदङ्गे
त्यक्ताघे परिमथितादथोरुदण्डा-
द्दोर्दण्डे परिमथिते त्वमाविरासी:
विख्यात: पृथुरिति तापसोपदिष्टै:
सूताद्यै: परिणुतभाविभूरिवीर्य:
वेनार्त्या कबलितसम्पदं धरित्री-
माक्रान्तां निजधनुषा समामकार्षी:
भूयस्तां निजकुलमुख्यवत्सयुक्त्यै-
र्देवाद्यै: समुचितचारुभाजनेषु
अन्नादीन्यभिलषितानि यानि तानि
स्वच्छन्दं सुरभितनूमदूदुहस्त्वम्
आत्मानं यजति मखैस्त्वयि त्रिधाम-
न्नारब्धे शततमवाजिमेधयागे
स्पर्धालु: शतमख एत्य नीचवेषो
हृत्वाऽश्वं तव तनयात् पराजितोऽभूत्
देवेन्द्रं मुहुरिति वाजिनं हरन्तं
वह्नौ तं मुनिवरमण्डले जुहूषौ
रुन्धाने कमलभवे क्रतो: समाप्तौ
साक्षात्त्वं मधुरिपुमैक्षथा: स्वयं स्वम्
तद्दत्तं वरमुपलभ्य भक्तिमेकां
गङ्गान्ते विहितपद: कदापि देव
सत्रस्थं मुनिनिवहं हितानि शंस-
न्नैक्षिष्ठा: सनकमुखान् मुनीन् पुरस्तात्
विज्ञानं सनकमुखोदितं दधान:
स्वात्मानं स्वयमगमो वनान्तसेवी
तत्तादृक्पृथुवपुरीश सत्वरं मे
रोगौघं प्रशमय वातगेहवासिन्
अथ श्रीमन्नारायणीये अष्टादशम् दशकम् समाप्तम्
श्री हरये नमः रमा रमण गोविन्द गोविन्दा
श्री कृष्णार्पणमस्तु
Please leave your valuable suggestions and feedback here
