श्रीमन्नारायणीयम् – 8 ( अष्टमम् दशकम् )
एवं तावत् प्राकृतप्रक्षयान्ते
ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा
ब्रह्मा भूयस्त्वत्त एवाप्य वेदान्
सृष्टिं चक्रे पूर्वकल्पोपमानाम्
सोऽयं चतुर्युगसहस्रमितान्यहानि
तावन्मिताश्च रजनीर्बहुशो निनाय
निद्रात्यसौ त्वयि निलीय समं स्वसृष्टै-
र्नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम्
अस्मादृशां पुनरहर्मुखकृत्यतुल्यां
सृष्टिं करोत्यनुदिनं स भवत्प्रसादात्
प्राग्ब्राह्मकल्पजनुषां च परायुषां तु
सुप्तप्रबोधनसमास्ति तदाऽपि सृष्टि:
पञ्चाशदब्दमधुना स्ववयोर्धरूप-
मेकं परार्धमतिवृत्य हि वर्ततेऽसौ
तत्रान्त्यरात्रिजनितान् कथयामि भूमन्
पश्चाद्दिनावतरणे च भवद्विलासान्
दिनावसानेऽथ सरोजयोनि:
सुषुप्तिकामस्त्वयि सन्निलिल्ये
जगन्ति च त्वज्जठरं समीयु-
स्तदेदमेकार्णवमास विश्वम्
तवैव वेषे फणिराजि शेषे
जलैकशेषे भुवने स्म शेषे
आनन्दसान्द्रानुभवस्वरूप:
स्वयोगनिद्रापरिमुद्रितात्मा
कालाख्यशक्तिं प्रलयावसाने
प्रबोधयेत्यादिशता किलादौ
त्वया प्रसुप्तं परिसुप्तशक्ति-
व्रजेन तत्राखिलजीवधाम्ना
चतुर्युगाणां च सहस्रमेवं
त्वयि प्रसुप्ते पुनरद्वितीये
कालाख्यशक्ति: प्रथमप्रबुद्धा
प्राबोधयत्त्वां किल विश्वनाथ
विबुध्य च त्वं जलगर्भशायिन्
विलोक्य लोकानखिलान् प्रलीनान्
तेष्वेव सूक्ष्मात्मतया निजान्त: –
स्थितेषु विश्वेषु ददाथ दृष्टिम्
ततस्त्वदीयादयि नाभिरन्ध्रा-
दुदञ्चितं किंचन दिव्यपद्मम्
निलीननिश्शेषपदार्थमाला-
संक्षेपरूपं मुकुलायमानम्
तदेतदंभोरुहकुड्मलं ते
कलेवरात् तोयपथे प्ररूढम्
बहिर्निरीतं परित: स्फुरद्भि:
स्वधामभिर्ध्वान्तमलं न्यकृन्तत्
संफुल्लपत्रे नितरां विचित्रे
तस्मिन् भवद्वीर्यधृते सरोजे
स पद्मजन्मा विधिराविरासीत्
स्वयंप्रबुद्धाखिलवेदराशि:
अस्मिन् परात्मन् ननु पाद्मकल्पे
त्वमित्थमुत्थापितपद्मयोनि:
अनन्तभूमा मम रोगराशिं
निरुन्धि वातालयवास विष्णो
ॐ तत्सत् इति श्रीमन्नारायणीये अष्टमम् दशकम् समाप्तम्
श्री हरये नमः रमा रमण गोविन्द गोविन्दा
सर्वम् श्री कृष्णार्पणमस्तु
Please leave your valuable suggestions and feedback here
