श्रीमद्वाल्मीकि रामायण ध्यान श्लोक:
गणपति ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
वागीशाद्याः सुमनसः सर्वार्थाना-मुपक्रमे ।
यं नत्वा कृतकृत्याः स्युः तं नमामि गजाननम् ॥
गुरु ध्यानम्
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥
सरस्वति ध्यानम्
दोर्भिर्युक्ता चतुर्भिः स्फटिक-मणिमयी-मक्षमालां दधाना
हस्तेनैकेन पद्मम् सितमपि च शुकं पुस्तकं चापरेण ।
भासा कुन्देन्दु-शङ्ख-स्फटिक-मणिनिभा भासमाना-समाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ।
श्रीवाल्मीकि मुनि वन्दनाम्
कूजन्तं राम रामेति मधुरं मधुराक्षरम् ।
आरुह्य कविता-शाखां वन्दे वाल्मीकि-कोकिलम् ।
यः पिबन् सततं राम-चरिता-ऽमृत-सागरम् ।
अतृप्तस्तं मुनिं वन्दे प्राचेतस-मकल्मषम् ॥
हनुमान नमस्कारम्
गोष्पदी-कृत-वारीशं मशकी-कृत-राक्षसम् ।
रामायण-महा-माला रत्नं वन्दे – ऽनिलात्मजम् ॥
अञ्जना-नन्दनं वीरं जानकी-शोक-नाशनम् ।
कपीश-मक्ष-हन्तारं वन्दे लङ्का-भयंकरम् ॥
उल्लङ्घय सिन्धोः सलिलं सलीलं
यः शोक-वह्नि : जनका ऽऽत्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥
आञ्जनेय-मतिपाटलाननं
काञ्चना-ऽद्रि-कमनीय-विग्रहम्।
पारिजात-तरुमूल-वासिनं
भावयामि पवमान-नन्दनम् ॥
यत्र यत्र रघुनाथ-कीर्तनं
तत्र तत्र कृत-मस्तकाऽञ्जलिम् ।
बाष्पवारि-परिपूर्ण-लोचनं
मारुतिं नमत राक्षसा-ऽन्तकम् ॥
मनोजवं मारुत-तुल्य-वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानर-यूथ-मुख्यं
श्रीराम-दूतं शिरसा नमामि ॥
श्रीराम ध्यानम्
वैदेही-सहितं सुर-द्रुम-तले हैमे महामण्डपे
मध्ये-पुष्पकमासने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभञ्जन-सुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥
वामे भूमि-सुता पुरस्तु हनुमान् पश्चात् सुमित्रा-सुतः
शत्रुघ्नो भरतश्च पार्श्व-दलयोः वाय्वादि-कोणेषु च ।
सुग्रीवश्च विभीषणश्च युवराट् तारा-सुतो जाम्बवान्
मध्ये नील-सरोज-कोमल-रुचिं रामं भजे श्यामलम् ॥
रामं रामानुजं सीतां भरतं भरता-ऽनुजं ।
सुग्रीवं वायु-सूनं च प्रणमामि पुनः पुनः ॥
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेन्द्र-यमानिलेभ्यः नमोऽस्तु चन्द्रा-ऽर्क-मरुद्गणेभ्यः ॥
रामायण नमस्कार
चरितं रघुनाथस्य शतकोटि – प्रविस्तरम् ।
एकैक-मक्षरं पुंसां महापातक-नाशनम् ॥
वाल्मीकि-गिरि-सम्भूता रामाऽम्भो-निधि-संगता ।
श्रीमद्रामायणी गङ्गा पुनाति भुवन-त्रयम् ॥
वाल्मीके-र्मुनि-सिंहस्य कविता-वनचारिणः ।
शृण्वन् राम-कथा-नादं को न याति परां गतिम् ॥
श्री हरये नमः श्री हरये नमः श्री हरये नमः
जानकी कांत स्मरणम् जय जय राम राम