श्रीमद्वाल्मीकि रामायण माहात्म्यम्
। प्रथमोऽध्यायः ।
श्रीरामः शरणं समस्तजगतां रामं विना का गती
रामेण प्रतिहन्यते कलिमलं रामाय कार्यं नमः ।
रामात् त्रस्यति कालभीमभुजगो रामस्य सर्वं वशे
रामे भक्तिरखण्डिता भवतु मे राम त्वमेवाश्रयः ॥ १
चित्रकूटालयं रामं इन्दिरानन्दमन्दिरम् ।
वन्दे च परमानन्दं भक्तानां अभयप्रदम् ॥ २
ब्रह्मविष्णुमहेशाद्या यस्यांशा लोकसाधकाः ।
नमामि देवं चिद्रूपं विशुद्धं परमं भजे ॥ ३
ऋषयः उचुः –
भगवन् सर्वमाख्यातं यत् पृष्ठं विदुषा त्वया ।
संसारपाशबद्धानां दुःखानि सुबहूनि च ॥ ४
एतत् संसारपाशस्य च्छेदकः कतमः स्मृतः ।
कलौ वेदोक्तमार्गाश्च नश्यन्तीति त्वयोदिताः ॥ ५
अधर्मनिरतानां च यातनाश्च प्रकीर्तिताः ।
घोरे कलियुगे प्राप्ते वेदमार्ग बहिष्कृते ॥ ६
पाखंडत्वं प्रसिद्धं वै सर्वैश्च परिकीर्तितम् ।
कामार्त्ता ह्रस्वदेहाश्च लुब्धा अन्योन्यतत्पराः ॥ ७
कलौ सर्वे भविष्यंति स्वल्पायुः बहुपुत्रकाः ।
स्त्रियः स्वपोषणपरा वेश्याचरण तत्पराः ॥ ८
पतिवाक्यं अनादृत्य सदा अन्यगृह तत्पराः ।
दुःशीलेषु करिष्यंति पुरुषेषु सदा स्पृहाम् ॥ ९
असद्वार्त्तां भविष्यन्ति पुरुषेषु कुलाङ्गनाः ।
परुषानृतभाषिण्यो देहसंस्कारवर्जिताः ॥ १०
वाचालश्च भविष्यन्ति कलौ प्रायेण योषितः ।
भिक्षवश्चापि मित्रादि स्नेहसम्बन्ध यन्त्रिताः ॥ ११
अन्नोपाधिनिमित्तेन शिष्यान् बध्नन्ति लोलुपाः ।
उभाभ्यां अपि पाणिभ्यां शिरः कण्डूयनं स्त्रियः ॥ १२
कुर्वन्त्यो गृहभर्तृणां आज्ञां भेत्स्यन्त्यतन्द्रिताः ।
पाखण्डालापनिरताः पाखण्डजनसङ्गिनः ॥ १३
यदा द्विजा भविष्यन्ति तदा वृद्धिं गतः कलिः ।
घोरे कलियुगे ब्रह्मन् जनानां पापकर्मिणाम् ॥ १४
मनः शुद्धि विहीनानां निष्कृतिश्च कथं भवेत् ।
यथा तुष्यति देवेशो देवदेवो जगद्गुरुः ॥ १५
ततो वदस्व सर्वज्ञ सुत धर्मभृतां वर ।
वद सूत मुनिश्रेष्ठ सर्वं एतत् अशेषतः ॥ १६
कस्य नो जायते तुष्टिः सूत त्वत् वचनामृतात् ॥ १७
सूत उवाच –
शृणुध्वं ऋषयः सर्वे यदिष्टं वो वदाम्यहम् ।
गीतं सनत्कुमाराय नारदेन महात्मना ॥ १८
रामायणं महाकाव्यं सर्ववेदेषु सम्मतम् ।
सर्वपापप्रशमनं दुष्टग्रह निवारणम् ॥ १९
दुःस्वप्न नाशनं धन्यं भुक्तिमुक्ति फलप्रदम् ।
रामचंद्रकथोपेतं सर्वकल्याणसिद्धिदम् ॥ २०
धर्मार्थकाममोक्षाणां हेतुभूतं महाफलम् ।
अपूर्वं पुण्यफलदं शृणुध्वं सुसमाहिताः ॥ २१
महापातक युक्तो वा युक्तो वा सर्वपातकैः ।
शृत्वैतदार्षं दिव्यं हि काव्यं शुद्धिं अवाप्नुयात् ॥ २२
रामायणेन वर्तन्ते सुतरां ये जगद्धिताः ।
त एव कृतकृत्याश्च सर्वशास्त्रार्थ कोविदाः ॥ २३
धर्मार्थकाममोक्षाणां साधनं च द्विजोत्तमाः ।
श्रोतव्यं च सदा भक्त्या रामायणपरामृतम् ॥ २४
पुनर्जितानि पापानि नाशमायांति यस्य वै ।
रामायणे महाप्रीतिः तस्य वै भवति ध्रुवन् ॥२५
रामायणे वर्तमाने पापपाशेन यन्त्रितः ।
अनादृत्य असद्गाथा आसक्तबुद्धिः प्रवर्तते ॥ २६
रामायणं नाम परं तु काव्यं सुपुण्यदं वै शृणुत द्विजेंद्राः ।
यस्मिन् शृते जन्मजरादिनाशो भवत्यदोषः स नरोऽच्युतः स्यात् ॥ २७
वरं वरेण्यं वरदं तु काव्यं संतारयत्याशु च सर्वलोकम् ।
संकल्पितार्थप्रदमादिकाव्यं शृत्वा च रामस्य पदं प्रयाति ॥ २८
ब्रह्मेशविष्ण्वाख्य शरीरभेदैः विश्वं सृजत्यत्ति च पाति यश्च ।
तमादिदेवं परमं वरेण्यं आधाय चेतस्युपयाति मुक्तिम् ॥ २९
यो नामजात्यादि विकल्पहीनः परावराणां परमः परः स्यात् ।
वेदाअंतवेद्यः स्वरुचा प्रकाशः स वीक्ष्यते सर्वपुराणवेदै ॥ ३०
ऊर्जे माहे सिते पक्षे चैत्रे च द्विजसत्तमाः ।
नवाह्ना खलु श्रोतव्यं रामायण कथामृतम् ॥ ३१
इत्येवं शृणुयाद् यस्तु श्रीरामचरितं शुभम् ।
सर्वान् कामान् अवाप्नोति परत्रामुत्र चोत्तमान् ॥ ३२
त्रिसप्तकुलसंयुक्तः सर्वपापविवर्जितः ।
प्रयाति रामभवनं यत्र गत्वा न शोचते ॥ ३३
चैत्रे माघे कार्तिके च सिते पक्षे चा वाचयेत् ।
नवाहस्सु महापुण्यं श्रोतव्यं च प्रयत्नतः ॥ ३४
रामायणं आदिकाव्यं स्वर्गमोक्ष प्रदायकम् ।
तस्माद् घोरे कलियुगे सर्वधर्म बहिष्कृते ॥ ३५
नवभिर्दिनैः श्रोतव्यं रामायण कथामृतम् ।
रामनामपरा ये तु घोरे कलियुगे द्विजाः ॥ ३६
त एव कृतकृत्याश्च न कलिर्बाधते हि तान् ।
कथा रामयणस्यापि नित्यं भवति यद्गृहे ॥ ३७
तद् गृहं तीर्थरूपं हि दुष्टानां पापनाशनम् ।
तावत्पापानि देहेस्मिन् निवसंति तपोधनाः ॥ ३८ ॥
यावन्न श्रूयते सम्यक् श्रीमद्रामायणं नरैः ।
दुर्लभैव कथा लोके श्रीमद्रामायणोद्भवा ॥ ३९
कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते ।
ऊर्जे माघे सिते पक्षे चैत्रे च द्विजसत्तमाः ॥ ४०
यस्य श्रवणमात्रेण सैदासोऽपि विमोचितः ।
गौतमशापतः प्राप्तः सौदासो राक्षसीं तनुम् ॥ ४१
रामायणप्रभावेण विमुक्तिं प्राप्तवान् पुनः ।
यस्त्वेतत् श्रुणुयाद् भक्त्या रामभक्तिपरायणः ॥ ४२
स मुचते पहापापैः पुरुष पातकादिभिः ॥ ४३
इति श्रीस्कंदपुराणे उत्तरखण्डे नारद-सनत्कुमार संवादे रामायणमाहात्म्ये कल्पानुकीर्तनं नाम प्रथमोऽध्यायः ॥ १ ॥