श्रीमद्वाल्मीकि रामायण माहात्म्यम्
| द्वितीयोध्यायः |
ऋषयः ऊचुः –
कथं सनत्कुमाराय देवर्षिर्नारदो मुनिः ।
प्रोक्तवान् सकलान् धर्मान् कथं तौ मिलितावुभौ ॥ १
कस्मिन् क्षेत्रे स्थितौ तात तावुभौ ब्रह्मवादिनौ ।
यदुक्तं नारदेनास्मै तत् त्वं ब्रूहि महामुने ॥ २
सूत उवाच –
सनकाद्या महात्मानो ब्रह्मणस्तनयाः स्मृताः ।
निर्ममा निरहंकारा सर्वे ते ह्यूर्ध्वरेतसः ॥ ३
तेषां नामानि वक्ष्यामि सनकश्च सनन्दनः ।
सनत्कुमारश्च तथा सनातन इति स्मृतः ॥ ४
विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः ।
सहस्रसूर्यसंकाशाः सत्यवन्तो मुमुक्षवः ॥ ५
एकदा ब्रह्मणः पुत्राः सनकाद्या महौजसः ।
मेरुश्रृङ्गे समाजग्मुः वीक्षितुं ब्रह्मणः सभाम् ॥ ६
तत्र गङ्गां महापुण्यां विष्णुपादोद्भवां नदीम् ।
निरीक्ष्य स्नातुमुद्युक्ताः सीताख्यां प्रथितौजसः ॥ ७
एतस्मिन् अंतरे विप्रा देवर्षिनारदो मुनिः ।
अजगामोच्चरन् नाम हरेर्नारायणादिकम् ॥ ८
नारायणाचुतानन्त वासुदेव जनार्दन ।
यज्ञेश जज्ञ्पुरुष राम विष्णो नमोऽस्तु ते ॥ ९
इत्युच्चरन् हरेर्नाम पावयन् अखिलं जगत् ।
आजगाम स्तुवन् गङ्गां मुनिर्लोकैकपावनीम् ॥ १०
अथयान्तं समुद्वीक्ष्य सनकाद्या महौजसः ।
यथार्हमर्हणं चक्रुः ववन्दे सोऽपि तान् मुनीन् ॥ ११
अथ तत्र सभामध्ये नारायणपरायणम् ।
सनत्कुमारः प्रोवाच नारदं मुनिपुङ्गवम् ॥ १२
सनत्कुमार उवाच –
सर्वज्ञोऽसि महाप्राज्ञ मुनीशानां च नारद ।
हरिभक्तिपरो यस्मात् त्वत्तो नास्त्यपरोऽधिकः ॥ १३
येनेदं अखिलं जातं जगत् स्थावरजङ्गमम् ।
गङ्गा पादोद्भवा यस्य कथं स ज्ञायते हरिः ॥ १४
अनुग्रह्योऽस्मि यदि ते तत्त्वतो वक्तुमर्हसि ।
नारद उवाच –
नमः पराय देवाय परात्परतराय च ॥ १५
परात्परनिवासाय सगुणायागुणाय च ।
ज्ञानाज्ञानस्वरूपाय धर्माधर्मस्वरूपिणे ॥ १६
विद्या अविद्या स्वरूपाय स्वरूपाय ते नमः ।
योदैत्यहन्ता नरकन्तकश्च भुजाग्रमात्रेण च धर्मगोप्ता ॥ १७
भूभारसन्घात विनोदकामं नमामि देवं रघुवंशदीपम्
आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः ॥ १८
हतवान् राक्षसानीकं रामं दाशरथिं भजे ।
एवमादीन्यनेकानि चरितानि महात्मनः ॥ १९
तेषां नामानि संख्यातुं शक्यन्ते नाब्दकोटिभिः ।
महिमानं तु यन्नाम्नः पारं गन्तुं न शक्यते ॥ २०
मनुभिश्च मुनीन्द्रैश्च कथं तं क्षुल्लको भजेत्
यन्नाम्नः स्मरणेनापि महापातकिनोऽपि ये ॥ २१
पावनत्वं प्रपद्यन्ते कथं स्तोष्यामि क्षुल्लधीः ।
रामायणपरा ये तु घोरे कलियुगे द्विजाः ॥ २२
त एव कृतकृत्याश्च तेषां नित्यं नमोऽस्तु ते ।
ऊर्जे मासि सिते पक्षे चैत्रे माघे तथैव च ॥ २३
नवाह्ना किल श्रोतव्यं रामाण कथामृतमम् ।
गौतमशापतः प्राप्तः सुदासो राक्षसीं तनुम् ॥ २४
रामायणप्रभावेण विमुक्तिं प्राप्तवानसौ ।
सनत्कुमार उवाच
रामायणं केन प्रोक्तं सर्वधर्मफलप्रदम् ॥ २५
प्राप्तः कथं गौतमेन सौदासो मुनिसत्तम ।
रामायणप्रभावेण कथं भूयो विमोक्षितः ॥ २६
अनुग्रह्योऽस्मि यति ते तत्त्वतो वक्तुमर्हसि ।
सर्वं एतत् अशेषेण मुने नो वक्तुमर्हसि ॥ २७
श्रृण्वतां वदतां चैव कथा पापविनाशिनी ।
नारद उवाच
श्रृणु रामायणं विप्र यद वाल्मीकिमुखोद्गतम् ॥ २८
नवाह्ना खलु श्रोतव्यं रामायण कथामृतम् ।
आस्ते कृतयुगे विप्रो धर्मकर्मविशारदः ॥ २९
सोमदत्त इति ख्यातो नाम्ना धर्मपरायणः ।
विप्रस्तु गौतमाख्येन मुनिना ब्रह्मवदिना ॥ ३०
श्रावितः सर्वधर्मांश्च गङ्गातीरे मनोरमे ।
पुराणशास्त्र कथनैः तेनासौ बोधितोऽपि च ॥ ३१
श्रुतवान् सर्वधर्मान् वै तेनोक्तान् अखिलानपि ।
कदाचित् परमेशस्य परिचर्यापरोऽभवत् ॥ ३२
उपस्थितायापि तस्मै प्रणामं न चकार सः ।
स तु शान्तो महाबुद्धिः गौतमस्तेजसां निधिः ॥ ३३
शास्त्रोदितानि कर्माणि करोति स मुदं ययौ ।
यस्त्वर्चितो महादेवः शिवः सर्वजगद्गुरुः ॥ ३४
गुर्ववज्ञाकृतं पापं राक्षसत्वे नियुक्तवान् ।
उवाच प्राञ्जलिर्भूत्वा विनयेषु च कोविदः ॥ ३५
विप्र उवाच –
भगवन् सर्वधर्मज्ञ सर्वदर्शिन् सुरेश्वरः ।
क्षमस्व भगवन् सर्वं अपराधः कृतो मया ॥ ३६
गौतम उवाच –
ऊर्जे मासे सिते पक्षे रामायण कथामृतम् ।
नवाह्ना चैव श्रोतव्यं भक्तिभावेन सादरम् ॥ ३७
नात्यन्तिकं भवेद् एतद् द्वादशाब्दं भविष्यति ।
विप्र उवाच –
केन रामायणं प्रोक्तं चरितानि तु कस्य वै ॥ ३८
एतत् सर्वं महाप्राज्ञ संक्षेपाद् वक्तुमर्हसि ।
मनसा प्रीतिमापन्नो ववन्दे चरणौ गुरोः ॥ ३९
गौतम उवाच –
श्रृणु रामायणं विप्र वाल्मीकिमुनिना कृतम् ।
येन रामावतारेण राक्षसा रावणादयः ॥ ४०
हतास्तु देवकार्यं हि चरितं तस्य तच्छृणु ।
कार्त्तिके च सिते पक्षे कथा रामायणस्य तु ॥ ४१
नवमेऽहनि श्रोतव्या सर्वपापप्रणाशिनी ।
इत्युक्त्वा चार्थसम्पन्नो गौतमः स्वाश्रमं ययौ ॥ ४२
विप्रोऽपि दुःखमापन्नो राक्षसीं तनुमाश्रितः ।
क्षुत्पीडितः पिपासार्त्तो नित्यं क्रोधपरायणः ॥ ४३
कृष्णक्षपाद्युतिर्भीमो बभ्राम विजने वने ।
मृगांश्च विविधांस्तत्र मनुष्यांश्च सरीसुपान् ॥ ४४
विहगान् प्लवगांश्चैव प्रसभात्तनभक्षयत् ।
अस्थिभिर्बहुभिर्विप्राः पीतरक्त कलेवरैः ॥ ४५
रक्तादप्रेतकैश्चैव तेनासीद् भूर्भयंकरी ।
ऋतुत्रये स पृथिवीं शतयोजन विस्तराम् ॥ ४६
कृत्वादिदुःखितां पश्चाद् वनान्तरमगात् पुनः ।
तत्रापि कृतवान् नित्यं नरमांसाशनं तदा ॥ ४७
जगाम नर्मदातीरे सर्वलोकभयंकरः ।
एतस्मिन् अंतरे प्राप्तः कश्चित् विप्रोऽतिधार्मिकः ॥ ४८
कलिङ्गदेशसंभूतो नाम्ना गर्ग इति स्मृतः ।
वहन् गङ्गाजलं स्कंधे स्तुवन् विश्वेश्वरं प्रभुम् ॥ ४९
गायन् नामानि रामस्य समायातोऽतिहर्षितः ।
तं आयान्तं मुनिं दृष्ट्वा सुदासो नाम राक्षसः ॥ ५०
प्राप्तो न पारणेत्युक्त्वा भुजौ उद्यम्य तं ययौ ।
तेन कीर्तितनामानि श्रुत्वा दूरे व्यवस्थितः ॥ ५१
अशक्तस्तं द्विजं हन्तुं इदं ऊचे स राक्षसः ।
राक्षस उवाच –
अहो भद्र महाभाग नमस्तुभ्यं महात्मने ॥ ५२
नामस्मरणमात्रेण राक्षसा अपि दूरगाः ।
मया प्रभक्षिताः पूर्वं विप्राः कोटिसहस्रशः ॥ ५३
नामप्रावरणं विप्र रक्षति त्वां महाभयात् ।
नामस्मरणमात्रेण राक्षसा अपि भो वयम् ॥ ५४
परां शान्तिं समापन्ना महिमा कोऽच्युतस्य हि ।
सर्वथा त्वं महाभाग रागादिरहितो द्विज ॥ ५५
रामकथाप्रभावेण पाह्यस्मात् पातकाधमात् ।
गुर्ववज्ञा मया पूर्वं कृता च मुनिसत्तम ॥ ५६
कृतश्चानुग्रहः पश्चाद् गुरुणोक्तं इदं वचः ।
वाल्मीकिमुनिना पूर्वं कथा रामायणस्य च ॥ ५७
ऊर्जे मासे सिते पक्षे श्रोतव्या च प्रयत्नतः ।
गुरुणापि पुनः प्रोक्तं रम्यं तु शुभदं वचः ॥ ५८
नवाह्ना खलु श्रोतव्यं रामायण कथामृतमम् ।
तस्माद् ब्रह्मन् महाभाग सर्वशास्त्रार्थकोविद ॥ ५९
कथाश्रवण मात्रेण पाह्यस्मात् पापकर्मणः ।
नारद उवाच –
ततो रामायणं ख्यातं राममाहात्म्यमुत्तमम् ॥ ६०
निशम्य विस्मयाविष्टो बभूव द्विजसतमः ।
ततो विप्रः कृपाविष्टो रामनामपरायणः ॥ ६१
सुदासराक्षसं नाम चेदं वाक्यमथाब्रवीत् ।
विप्र उवाच –
राक्षसेन्द्र महाभाग मतिस्ते विमलाभवत् ॥ ६२
अस्मिन् ऊर्जे सिते पक्षे रामायणकथां श्रृणु ।
श्रृणु त्वं राममाहात्म्यं रामभक्तिपरायण ॥ ६३
रामध्यानपराणां च कः समर्थः प्रबाधितुम् ।
रामभक्तिपरो यत्र तत्र ब्रह्मा हरिः शिवः ॥ ६४
तत्र देवाश्च सिद्धाश्च रामायणपरा नराः ।
तस्मात् ऊर्जे सिते पक्षे रामायणकथां श्रृणु ॥ ६५
नवाह्ना खलु श्रोतव्यं सावधानः सदा भव ।
इत्युक्त्वा कथयामास रामायणकथां मुनिः ॥ ६६
कथाश्रवणमात्रेण राक्षसत्वं अपाकृतम् ।
विसृज्य राक्षसं भावं अभवत् देवतोपमः ॥ ६७
कोटिसूर्यप्रतीकाशो नारायण समप्रभः ।
शङ्खचक्र गदापाणि हरेः सद्म जगाम सः ॥ ६८
स्तुवन् तं ब्राह्मणं सम्यग् उअगाम हरिमंदिरम् ॥ ६९
नारद उवाच –
तस्मात् श्रूणुध्वं विप्रेन्द्रा रामायण कथामृतम् ।
स तस्य महिमा तत्र ऊर्जे मासि च कीर्त्यते ॥ ७०
यन्नामस्मरणादेव महापातक कोटिभिः ।
विमुक्तः सर्वपापेभ्यो नरो याति परां पगिम् ॥ ७१
रामायणेति यन्नम सकृदप्युच्यते यदा ।
तदैव पापनिर्मुक्तो विष्णुर्लोकं स गच्छति ॥ ७२
ये पठंति सदाऽऽख्यानं भक्त्या श्रृण्वन्ति ये नराः ।
गङ्गास्नानच्छतगुणं तेषां संजायते फलम् ॥ ७३
इति श्रीस्कंदपुराणे उत्तरखण्डे नारद-सनत्कुमार संवादे रामायणमाहात्म्ये राक्षमोक्षणं नाम द्वितीयोऽध्यायः ॥ १ ॥