श्रीमद्वाल्मीकि रामायण माहात्म्यम्
| तृतीयोध्यायः |
सनत्कुमार उवाच –
अहो विप्र इदं प्रोक्तं इतिहासं च नारद ।
रामायणस्य माहात्म्यं त्वं पुनर्वद विस्तरात् ॥ १
अन्यमासस्य माहात्म्यं कथयस्व प्रसादतः ।
कस्य नो जायते तुष्टिः मुने त्वद् वचनामृतात् ॥ २
नारद उवाच –
सर्वे यूयं महाभागाः कृतार्था नात्र संशयः ।
यतः प्रभावं रामस्य भक्तितः श्रोतुमुद्यताः ॥ ३
माहात्म्यश्रवणं यस्य राघवस्य कृतात्मनाम् ।
दुर्लभं प्राहुरत्यन्तं मुनयो ब्रह्मवादिनः ॥ ४
श्रृणुध्वं ऋषयश्चित्रं इतिहासं पुरातनम् ।
सर्वपापप्रशमनं सर्वरोगविनाशनम् ॥ ५
आसीत् पुरा द्वापरे च सुमतिर्नाम भूपतिः ।
सोमवंशोद्भवः श्रीमान् सप्तद्वीपैकनायकः ॥ ६
धर्मात्मा सत्यसम्पन्नः सर्वसम्पद् विभूषितः ।
सदा रामकथासेवी रामपूजापरायणः ॥ ७
रामपूजापराणां च शुश्रूषुरनहंकृतिः ।
पूज्येषु पूजानिरतः समदर्शी गुणान्वितः ॥ ८
सर्वभूतहितः शान्तः कृतज्ञः कीर्त्तिमान् नृपः ।
तस्य भार्या महाभागा सर्वलक्षणसंयुताः ॥ ९
पतिव्रता पतिप्राणा नाम्ना सत्यवती श्रुता ।
तावुभौ दम्पती नित्यं रामायणपरयणौ ॥ १०
अन्नदानरतौ नित्यं जलदानपरायणौ ।
तडागारामवाप्यादीन् असंफ्यान् वितेनतुः ॥ ११
सोऽपि राजा महाभागो रामायणपरायणः ।
वाचयेच्छृणुयाद वापि भक्तिभावेन भावितः ॥ १२
एवं रामपरं नित्यं राजानं धर्मकोविदम् ।
तस्य प्रियां सत्यवतीं देवा अपि सदास्तुवन् ॥ १३
विश्रुतौ त्रिषु लोकेषु दम्पती तौ हि धार्मिकौ ।
आययौ बहुभिः शिष्यैः द्रष्टुकामो विभाण्डकः ॥ १४
विभाण्डकं मुनिं दृष्ट्वा सुखमाप्तो जनेश्वरः ।
प्रत्युद्ययौ सपत्नीकः पूजाभिर्बहुविस्तरम् ॥ १५
कृतातिथ्यक्रियं शान्तं कृतासनपरिग्रहम् ।
निजासनगतो भूपः प्राञ्जलिर्मुनिमब्रवीत् ॥ १६
राजोवाच –
भगवन् कृतकृत्योऽद्य त्वदभ्यागमनेन भोः ।
सतमागमनं सन्तः प्रशंसन्ति सुखावहम् ॥ १७
यत्र स्यान्महतां प्रेम तत्र स्युः सर्वसम्पदः ।
तेजः कीर्तिर्धनं पुत्र इति प्राहुर्विपश्चितः ॥ १८
तत्र वृद्धिं गमिष्यन्ति श्रेयांस्यनुदिनं मुने ।
यत्र सन्तः प्रकुर्वन्ति महतीं करुणां प्रभो ॥ १९
यो मूर्ध्नि धारयेद् ब्रह्मन् विप्रपादतलोदकम् ।
स स्नातो सर्वतीर्थेषु पुण्यवान् नात्र संशयः ॥ २०
मम पुत्राश्च दाराश्च सम्पदश्च समर्पिताः ।
समाज्ञापय शान्तात्मन् वयं किं करवाणि ते ॥ २१
इत्थं वदन्तं भूपं तं स निरीक्ष्य मुनीश्वरः ।
स्पृशन् करेण राजानं प्रत्युवाचातिहर्षितः ॥ २२
ऋषिरुवाच –
राजन् यदुक्तं भवता तत्सर्वं त्वत्कुलोचितम् ।
विनयावनताः सर्वे परं श्रेयो भजन्ति हि ॥ २३
प्रीतोऽस्मि तव भूपाल सन्मार्गपरिवर्तिनः ।
स्वस्ति तेऽस्तु महाभाग यत्पृच्छामि तदुच्यताम् ॥ २४
हरिसंतोषकान्यासन् पुराणानि बहून्यपि ।
माघे मासि चोद्यतोऽसि रामायणपरायणः ॥ २५
तव भार्यापि साध्वीयं नित्यं रामपरायणा ।
किमर्थमेतद् वृत्तान्तं यथावद् वक्तुमर्हसि ॥ २६
राजोवाच –
श्रृणुष्व भगवन् सर्वं यत्पृच्छसि वदामि तत् ।
आश्चर्यं यद्धि लोकानां आवयोश्चरितं मुने ॥ २७
अहमासं पुरा शुद्रो मालतिर्नाम सत्तम ।
कुमार्गनिरतो नित्यं सर्वलोकाहिते रतः ॥ २८
पिशुनो धर्मविद्वेषी देवद्रव्यापहारकः ।
महापातकिसंसर्गी देवद्रव्योपजीवकः ॥ २९
गोघ्नश्च ब्रह्महा चौरो नित्यं प्राणिवधे रतः ।
नित्यं निष्ठुरवक्ता च पापी वेश्यापरायणः ॥ ३०
किञ्चित् काले स्थितो ह्येवं अनादृत्य महद्वचः ।
सर्वबन्धुपरित्यक्तो दुःखी वनमुपागमम् ॥ ३१
मृगमांसाशनं नित्यं तथा मार्गविरोधकृत् ।
एकाकी दुःखबहुलो न्यवसं निर्जने वने ॥ ३२
एकदा क्षुत्परिश्रान्तो निद्राघूर्णः पिपासितः ।
वसिष्ठस्याश्रमं दैवाद् अपश्यं निर्जने वने ॥ ३३
हंसकारण्डवाकीर्णं तत्समीपे महत्सरः ।
पर्यन्ते वनपुष्पौघैः छादितं तन्मुनीश्वर ॥ ३४
अपिबं तत्र पानीयं तत्तटे विगतश्रमः ।
उन्मूल्य वृक्षमूलानि मया क्षुच्च निवारिता ॥ ३५
वसिष्ठस्याश्रमे तत्र निवासं कृतवानहम् ।
शीर्णस्फटिक संधानं तत्र चाहमकारिषम् ॥ ३६ ॥
पर्णैस्तृणैश्च काष्ठैश्च गृहं सम्यक् प्रकल्पितम् ।
तत्राहं व्याधसत्त्वस्थो हत्वा बहुविधान् मृगान् ॥ ३७
आजीविकां च कुर्वाणो वत्सराणां च विंशतिम् ।
अथेयमागता साध्वी विन्ध्यदेशसमुद्भवा ॥ ३८
निषादकुलसम्भूता नाम्ना कालीति विश्रुता ।
बन्धुवर्गैः परित्यक्ता दुःखिता जीर्णविग्रहा ॥ ३९
ब्रह्मन् क्षुत्तृट्परिश्रान्ता शोचन्ती भौक्तिकीं क्रियाम् ।
दैवयोगात् समायाता भ्रमन्ती विजने वने ॥ ४०
मासे ग्रीष्मे च तापार्त्ता ह्यन्तस्तापप्रपीडिता ।
इमां दुःखवतीं दृष्ट्वा जाता मे विपुला घृणा ॥ ४१
मया दत्तं जलं चास्यै मांसं वनफलं तथा ।
गतश्रमा तु सा पृष्टा मया ब्रह्मन् यथातथम् ॥ ४२
न्यवेदयत् स्वकर्माणि तानि श्रृणु महामुने ।
इयं काली तु नाम्ना वै निषादकुलसम्भवा ॥ ४३
दाम्भिकस्य सुता विद्वन् न्यवसद् विन्ध्यपर्वते ।
परस्वहारिणी नित्यं सदा पैशुन्यवादिनी ॥ ४४
बन्धुवर्गैः परित्यक्ता यतो हतवती पतिम् ।
कान्तारे विजने ब्रह्मन् मत्समीपं उपागता ॥ ४५
इत्येवं स्वकृत्वं कर्म सर्वं मह्यं न्यवेदयत् ।
वसिष्ठस्याश्रमे पुण्ये अहं चेयं च वै मुने ॥ ४६
दम्पतीभावमाश्रित्य स्थितौ मांसाशिनौ तदा ।
उद्यमार्थे गतौ चैव वसिष्ठस्याश्रमं तदा ॥ ४७
दृष्ट्वा चैव समाजं च देवर्षिणां च सत्तम ।
रामायणपरा विप्रा माघे दृष्ट्वा दिने दिने ॥ ४८
निराहारौ च विक्रान्तौ क्षुत्पिपासाप्रपीडितौ ।
अनिच्छया गतौ तत्र वसिष्ठस्याश्रमं प्रति ॥ ४९
रामायणकथां श्रोतुं नवाह्ना चैव भक्तितः ।
तत्काल एव पञ्चत्वं आवयोरभवन्मुने ॥ ५०
कर्मणा तेन तुष्टात्मा भगवान् मधुसूदनः ।
स्वदूतान् प्रेषयामास मदाहरणकारणात् ॥ ५१
आरोप्य मां विमाने तु जग्मुस्ते च परं पदम् ।
आवां समीपमापन्नौ देवदेवस्य चक्रिणः ॥ ५२
भुक्तवन्तौ महाभोगान् यावत्कालं श्रृणुष्व मे ।
युगकोटिसहस्राणि युगकोटिशतानि च ॥ ५३
उषित्वा रामभवने ब्रह्मलोकमुपागतौ ।
तावत्कालं च तत्रापि स्थित्वैन्द्रपदमागतौ ॥ ५४
तत्रापि तावत्कालं च भुक्त्वा भोगाननुत्तमान् ।
ततः पृथ्वीं वयं प्राप्ताः क्रमेण मुनिसत्तम ॥ ५५
अत्रापि सम्पदतुला रामायणप्रसादतः ।
अनिच्छया कृतेनापि प्राप्तं एवंविधं मुने ॥ ५६
नवाह्ना किल श्रोतव्यं रामायणकथामृतम् ।
भक्तिभावेन धर्मात्मन् जन्ममृत्युजरापहम् ॥ ५७
अवशेनापि यत्कर्म कृतं तु सुमहत्फलम् ।
ददाति श्रृणु विप्रेन्द्र रामायणप्रसादतः ॥ ५८
नारद उवाच –
एतत्सर्वं निशम्यासौ विभाण्डको मुनीश्वरः ।
अभिनन्द्य महीपालं प्रययौ स्वतपोवनम् ॥ ५९
तमाच्छृणुध्वं विप्रेन्द्रा देवदेवस्य चक्रिणः ।
रामायणकथा चैव कामधेनूपमा स्मृता ॥ ६०
माघे मासे सिते पक्षे रामायणं प्रयत्नतः ।
नवाह्ना किल श्रोतव्यं सर्वधर्मफलप्रदम् ॥ ६१
य इदं पुण्यमाख्यानं सर्वपापप्रणाशनम् ।
वाचयेत् श्रृणुयाद् वापि रामभक्तश्च जायते ॥ ६२
इति श्रीस्कंदपुराणे उत्तरखण्डे नारद-सनत्कुमार संवादे रामायणमाहात्म्ये माघफलानुकीर्तनं नाम तृतीयोऽध्यायः ॥ ३ ॥