श्रीमद्वाल्मीकि रामायण माहात्म्यम्
। पञ्चमोऽध्यायः ।
सूत उवाच –
रामायणस्य माहात्म्यं श्रुत्वा प्रीतो मुनीश्वरः ।
सनत्कुमारः पप्रच्छ नारदं मुनिसत्तमम् ॥ १
सनत्कुमार उवाच –
रामायणस्य माहात्म्यं कथितं वै मुनिश्वर ।
इदानीं श्रोतुमिच्छामि विधिं रामायणस्य च ॥ २
एतच्चापि महाभाग मुने तत्त्वार्थकोविद ।
कृपया परयाविष्टो यथावद् वक्तुमर्हसि ॥ ३
नारद उवाच –
रामायणविधिं चैव श्रृणुध्वं सुसमाहिताः ।
सर्वलोकेषु विख्यातं स्वर्गमोक्षविवर्धनम् ॥ ४
विधानं तस्य वक्ष्यामि श्रृणुध्वं गदतो मम ।
रामायणकथां कुर्वन् भक्तिभावेन भावितः ॥ ५
येन चीर्येण पापानां कोटिकोटिः प्रणश्यति ।
चैत्रे माघे कार्त्तिके च पञ्चम्यां अथवाऽऽरभेत् ॥ ६
संकल्पं तु ततः कुर्यात् स्वस्तिवाचनपूर्वकम् ।
अहोभिर्नवभिः श्राव्यं रामायण कथामृतमम् ॥ ७
अद्य प्रभृत्यहं राम श्रृणोमि त्वत्कथामृतम् ।
प्रत्यहं पूर्णतामेतु तव राम प्रसादतः ॥ ८
प्रत्यहं दन्तशुद्धिं च अपामार्गस्य शाखया ।
कृत्वा स्नायीत विधिवत् रामभक्तिपरायणः ॥ ९
स्वयं च बन्धुभिः सार्द्धं श्रृणुयात् प्रयतेन्द्रियः ।
स्नानं कृत्वा यथाचारं दन्तधावनपूर्वकम् ॥ १०
शुक्लाम्बरधरः शुद्धो गृहमागत्य वाग्यतः ।
प्रक्षाल्य पादौ आचम्य स्मरेन्नारायणं प्रभुम् ॥ ११
नित्यं देवार्चनं कृत्वा पश्चात् संकल्पपूर्वकम् ।
रामायणपुस्तकं च अर्चयेत् भक्तिभावतः ॥ १२
आवाहन आसनाद्यैश्च गन्धपुष्पादिभिर्व्रती ।
ॐ नमो नारायणायेति पूजयेत् भक्तितत्परः ॥ १३
एकवारं द्विवारं वा त्रिवारं वापि शक्तितः ।
होमं कुर्यात् प्रयत्नेन सर्वपापनिवृत्तये ॥ १४
एवं यः प्रयतः कुर्याद् रामायणविधिं तथा ।
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ॥ १५
रामायणव्रतधरो धर्मकारी च सत्तमः ।
चाण्डालं पतितं वापि वस्त्रान्नेनापि नार्चयेत् ॥ १६
नास्तिकान् भिन्नमर्यादान् निन्दकान् पिशुनानपि ।
रामायणव्रतपरो वाङ्मात्रेणापि नार्चयेत् ॥ १७
कुण्डाशिनं गायकं च तथा देवलकाशनम् ।
भिषजं काव्यकर्तारं देवद्विज विरोधिनम् ॥ १८
परान्नलोलुपं चैव परस्त्रीनिरतं तथा ।
रामायणव्रतपरो वाङ्मात्रेणापि नार्चयेत् ॥ १९
इत्येवमादिभिः शुद्धो वशी सर्वहिते रतः ।
रामायणपरो भूत्वा परां सिद्धिं गमिष्यति ॥ २०
नास्ति गङ्गासमं तीर्थं नास्ति मातृसमो गुरुः ।
नास्ति विष्णुसमो देवो नास्ति रामायणात् परम् ॥ २१
नास्ति वेदसमं शास्त्रं नास्ति शान्तिसमं सुखम् ।
नास्ति शान्तिपरं ज्योतिः नास्ति रामायणात् परम् ॥ २२
नास्ति क्षमासमं सारं नास्ति कीर्तिसमं धनम् ।
नास्ति ज्ञानसमो लाभो नास्ति रामायणात् परम् ॥ २३
तदन्ते वेदविदुषे गां दद्याच्च सदक्षिणाम् ।
रामायणं पुस्तकं च वस्त्रालंकरणादिकम् ॥ २४
रामायणपुस्तकं यो वाचकाय प्रयच्छति ।
स यति विष्णुभवनं यत्र गत्वा न शोचति ॥ २५
नवाहजफलं कर्तुः श्रृणु धर्मविदां वर ।
पञ्चम्यां तु समारभ्य रामायण कथामृतम् ॥ २६
कथाश्रवणमात्रेण सर्वपापैः प्रमुच्यते ।
यदि द्वयं कृतं तस्य पुण्डरीकफलं लभेत् ॥ २७
व्रतधारी तु श्रवणं यः कुर्यात् स जितेन्द्रियः ।
अश्वमेधस्य यज्ञस्य द्विगुणं फलमश्नुते ॥ २८
चतुःकृत्वः श्रुतं येन कथितं मुनिसत्तमाः ।
स लभेत् परमं पुण्यं अग्निष्टोमाष्टसम्भवम् ॥ २९
पञ्चकृत्वो व्रतमिदं कृतं येन महात्मना ।
अत्यग्निष्टोमजं पुण्यं द्विगुणं प्राप्नुयान्नरः ॥ ३०
एवं व्रतं च षड्वारं कुर्याद् यस्तु समाहितः ।
अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् ॥ ३१
नारी वा पुरुषः कुर्याद् अष्टकृत्वो मुनीश्वराः ।
नरमेधस्य यज्ञस्य फलं पञ्चगुणं लभेत् ॥ ३२
नरो वाप्यथ नारी वा नववारं समाचरेत् ।
गोमेधसवजं पुण्यं स लभेत् त्रिगुणं नरः ॥ ३३
रामायणं तु यः कुर्यात् शान्तात्मा प्रयतेन्द्रियः ।
स याति परमानन्दं यत्र गत्वा न शोचति ॥ ३४
रामायणपरो नित्यं गङ्गास्नानपरायणः ।
धर्ममार्ग प्रवक्तारो मुक्ता एवं न संशयः ॥ ३५
यतीनां ब्रह्मचारीणां प्रवीराणां च सतमाः ।
नवाह्ना किल श्रोतव्या कथा रामायणस्य च ॥ ३६
श्रुत्वा नरो रामकथां अतिदीप्तोऽति भक्तितः ।
ब्रह्मणः पदमासाद्य तत्रैव परिमोदते ॥ ३७
तस्मात् श्रृणुध्वं विप्रेन्द्रा रामायण कथामृतम् ।
श्रोतॄणां च परं श्राव्यं पवित्राणां अनुत्तमम् ॥ ३८
दुःस्वप्नप्रनाशनं धन्यं श्रोतव्यं च प्रयत्नतः ।
नरोऽत्र श्रद्धया युक्तः श्लोकं श्लोकार्द्धमेव च ॥ ३९
पठते मुच्यते सद्यो हि उपपातककोटिभिः ।
सतामेव प्रयोक्तव्यं गुह्याद् गुह्यतमं तु यत् ॥ ४०
वाचयेत् रामभवने पुण्यक्षेत्रे च संसदि ।
ब्रह्मद्वेषरतानां च दम्भाचार रतात्मनाम् ॥ ४१
लोकवञ्चक वृत्तीनां न ब्रूयाद् इदमुत्तमम् ।
त्यक्त कामादिदोषाणां रामभक्ति रतात्मनाम् ॥ ४२
गुरुभक्तिरतानां च वक्तव्यं मोक्षसाधनम् ।
सर्वदेवमयो रामः स्मृतश्चार्त्तिप्रणाशनः ॥ ४३
सद्भक्तवत्सलो देवो भक्त्या तुष्यति नान्यथा ।
अवशेनापि यन्नाम्नि कीर्तिते वा स्मृतेऽपि वा ॥ ४४
विमुक्तपातकः सोऽपि परमं पदमश्नुते ।
संसारघोरकान्तार दावाग्निर्मधुसूदनः ॥ ४५
स्मर्तॄणां सर्वपापानि नाशयत्याशु सत्तमाः ।
तदर्थकमिदं पुण्यं काव्यं श्राव्यं अनुत्तमम् ॥ ४६
श्रवणाद् पठनाद् वापि सर्वपापविनाशकृत्
यस्य रामरसे प्रीतिः वर्तते भक्तिसंयुता ॥ ४७
स एव कृतकृत्यश्च सर्व शास्त्रार्थकोविदः ।
तदर्जितं तपः पुण्यं तत्सत्यं सफलं द्विजाः ॥ ४८
यदर्थश्रवणे प्रीतिः अन्यथा न हि वर्तते ।
रामायणपरा ये तु रामनामपरायणाः ॥ ४९
त एव कृतकृत्याश्च घोरे कलियुगे द्विजाः ।
नवाह्ना किल श्रोतव्यं रामायण कथामृतमम् ॥ ५०
ते कृतज्ञा महात्मानः तेभ्यो नित्यं नमो नमः ।
रामनामैव नामैव नामैव मम जीवनम् ॥ ५१
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ।
सूत उवाच – एवं सनत्कुमारस्तु नारदेन महात्मना ॥ ५२
सम्यक् प्रबोधितः सद्यः परां निर्वृतिमाप ह ।
तस्मात् श्रृणुध्वं विप्रेन्द्रा रामायण कथामृतम् ॥ ५३
नवाह्ना किल श्रोतव्यं सर्वपापैः प्रमुच्यते ।
श्रुत्वा चैतन्महाकाव्यं वाचकं यस्तु पूजयेत् ॥ ५४
तस्य विष्णुः प्रसन्नः स्यात् श्रिया सह द्विजोत्तमाः ।
वाचके प्रीतिमापन्ने ब्रह्मविष्णुमहेश्वराः ॥ ५५
प्रीता भवन्ति विप्रेन्द्रा नात्र कार्या विचारणा ।
रामायाणवाचकाय गावो वासांसि काञ्चनम् ॥ ५६
रामायणं पुस्तकं च दद्यात् वित्तानुसारतः ।
तस्य पुण्यफलं वक्ष्ये श्रृणुध्वं सुसमाहिताः ॥ ५७
न बाधन्ते ग्रहास्तस्य भूतवेतालकादयः ।
तस्यैव सर्वश्रेयांसि वर्द्धन्ते चरिते श्रुते ॥ ५८
न चाग्निर्बाधते तस्य न चौरादिभयं तथा ।
एतज्जन्मार्जितैः पापैः सद्य एव विमुच्यते ॥ ५९
सप्तवंशसमेतस्तु देहान्ते मोक्षमाप्नुयात् ।
इत्येतद्वः समाख्यातं नारदेन प्रभाषितम् ॥ ६०
सनत्कुमारमुनये पृच्छते भक्तितः पुरा ।
रामायणं आदिकाव्यं सर्ववेदार्थ सम्मतम् ॥ ६१
सर्वपापहरं पुण्यं सर्वदुःख निबर्हणम् ।
समस्तपुण्यफलदं सर्वयज्ञ फलप्रदम् ॥ ६२
ये पठन्त्यत्र विबुधाः श्लोकं श्लोकार्द्धमेव च ।
न तेषां पापबन्धस्तु कदाचिदपि जायते ॥ ६३
रामार्पितं इदं पुण्यं काव्यं तु सर्वकामदम् ।
भक्त्य श्रृण्वन्ति विदन्ति तेषां पुणफलं श्रृणु ॥ ६४
शतजन्मार्जितैः पापैः सद्य एव विमोचिताः ।
सहस्रकुलसंयुक्तैः प्रयान्ति परमं पदम् ॥ ६५
किं तीर्थैर्गोपदानैर्वा किं तपोधिः कमध्वरैः ।
अहन्यहनि रामस्य कीर्तनं परिश्रृण्वताम् ॥ ६६
चैत्रे माघे कार्तिके च रामायण कथामृतम् ।
नवैरहोभिः श्रोतव्यं रामायण कथामृतम् ॥ ६७
रामप्रसादजनकं रामभक्तिविवर्धनम् ।
सर्वपापक्षयकरं सर्वसम्पद् विवर्धनम् ॥ ६८
यस्त्वेतत् श्रृणुयाद् वापि पठेद् वा सुसमाहितः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ६९
इति श्रीस्कंदपुराणे उत्तरखण्डे नारद-सनत्कुमार संवादे रामायणमाहात्म्ये फलानुकीर्तनं नाम पञ्चमोऽध्यायः ॥ ५ ॥